#

श्री आशुतोष कुमार त्रिपाठी

शिक्षक व्याकरण

शास्त्रेषु यावन्तः शब्दाः यावन्ति रूपाणि सन्ति, तानि सर्वाणि रूपाणि व्याकरणस्य नियमानुसारेण सूत्रैर्निर्भीयन्ते। व्याकरणस्य लेखकः पाणिनिर्वर्तते। व्याकरणशास्त्रं विना सर्व संस्कृतम् अशुद्धं भवति। व्याकरणं सर्वेषां शास्त्रार्णा मुखं वर्तते। "मुखं व्याकरणं प्रोक्तम् वयं यत्र कुत्रापि गच्छाम, तत्र व्याकरणस्य शब्दा लभ्यन्ते। औषधालयः प्रतीक्षालयः, विद्यालयः, भोजनालयः शौचालयः, मन्त्रालयः, राष्ट्रपतिः, प्रधानमन्त्री, विधायकाश्च। संस्कृतव्याकरणम् अतीव कठिनं मन्यते, व्याकरणशास्त्राणि अष्टप्रकारकाणि भवन्ति। अस्य लेखका पाणिनि-कात्यायनि पलञ्जलयः वर्तन्ते। पाणिनिना सूत्राणि लिखितानि, कात्यायनिना वृत्तयः लिखिताः, पतञ्जलिना परिभाषाश्च लिखिताः। पूर्व शिवस्य डमरुनामकवाद्ययन्त्रात् चतुर्दशसूत्राणि विस्फुरितानि, तैः चतुर्दशसूत्रैः व्याकरणशास्त्राणां निर्माणम् अभवत्। ये जनाः व्याकरणस्य सम्यक्तया अध्ययनं कुर्वन्ति, ते सर्वाणि शास्त्राणि सम्यक्तया पठितुं, लेखितुं च शक्नुवन्ति। शास्त्रेषु व्याकरणं विना पठनपाठने च न सम्भाव्येते। व्याकरणं विना शास्त्राणि कठिनानि भवति, अर्थोऽपि न ज्ञायते। व्याकरणं लौहस्य चिपिटान्नादपि कठिनं भवति, अर्थात् व्याकरणापेक्षया चिपिटान्नं सरलं भवति इति विशेषज्ञाः कथयन्ति। वास्तविकरूपेण व्याकरणस्याध्ययनं विना शास्त्रेषु निपुणा न भवन्ति जनाः। व्याकरणस्याध्ययनेन श्लोकानां सन्धिविच्छेदं-समासम्-अन्वयम्-अर्थञ्च कर्तुं शक्यते। व्याकरणम् एकम् अस्त्रं वर्तते। सर्वासां भाषाणां पृथक् पृथक् व्याकरणानि भवन्ति। यावत् व्याकरणस्य सम्यक्तया ज्ञानं न भवति, तावत् तस्या 'भाषायाः सम्यक्तया ज्ञानमपि भवितुं न शक्नोति। व्याकरणस्य माध्यमेन भाषाया अध्ययनं सरलं मधुरं च भवति। यथा रात्रौ चन्द्रस्य आगमनेन (उदयेन) उष्णता गच्छति, शीतस्यानुभवो जायते। तथैव व्याकरणस्य ज्ञानेन सर्वेषां