#

श्री रविशंकर

प्रवक्ता (ज्योतिष)

वेद चक्षुः किलेदं स्मृतं ज्यौतिषं,
मुख्यताचाङ्गमध्येऽस्य तेनोच्यते।
संयुतोऽपीतरैःकर्मनासादिभि-
"श्चक्षुषाङ्गेन हीनों न किञ्किञ्चित्करः।।

वेदस्य षट्सु अङ्गेषु ज्यौतिषनामाङ्गां नितान्तं महत्वपूर्णमङ्गमस्ति। यज्ञानां प्रतिपाददनायैव वेदाः आजयन प्रवृत्ताः।तेषां हि यज्ञानां विधानं चेत् समुचिते काले विधीयते सदैव तत्फलं लभ्यते । ज्यौतिःशास्त्रं यज्ञविधानस्य युक्ततरे काले निर्दिशिति तस्मात् शास्त्रं तत्कालविधायकशास्त्रम् इति नाम्ना भुवि सर्वत्र प्रख्य वर्तते। यज्ञभागः बहुविधाः सन्ति।केचन यज्ञाः एवं विधा विधानेनीता ये संवत्सर सम्वत्सर सम्बन्धिनःसन्ति। कचन एतादृशाः सन्ति ये क्रतूसम्बन्धिनो वर्तन्ते।केचन नक्षत्र,तिथि-मास-पक्षपरकाःसन्ति। अयं भावः देवेषु यज्ञभागादीनां भिन्न भिन्न कालेषु कृतमवाप्यतैत्तिरीय ब्राह्मणं वदति- वसन्ते ब्राह्मणोऽग्निमाधीत् गीष्मो राजन्य आदधीत। शरदि वैश्य आदधीत।(तै०ब्रा०) एतद् विधाया वेदस्य आज्ञयाःपालनं ज्योतिषशास्त्रज्ञं सत्यमेव यथायथं भवितुमर्हति। तस्माज्जयौतिषं नाम वेदाङ्गंमपि नैजं वैशिष्ट्यं निदधाति। ज्यौतिषमिदं काल विज्ञापकं शास्त्रम्। मुहूर्त शोधयित्वा क्रियमाणा यज्ञादिक्रिया विशेषाःफलाय कलप्यन्ते,नान्यथा तत् मुहूर्तज्ञाज्यौतिषायत्तसमोऽस्य ज्यौतिष शास्त्रस्य वेदाङ्गत्वं स्वीकृतम्। यथोक्तं-वेदाहियज्ञार्थमभिप्रवृत्ताः,कालानुपूर्वाविहिताश्च यज्ञा तस्मादिदं काल विधान शास्त्रं, ज्यौतिषं वेदा सवेदा यज्ञाः। यज्ञविधानस्य ज्योतिष शास्त्रस्य इदं महत्त्वं-भास्कराचार्येणापि स्वीकृतम्-वेदासतावत् यज्ञकर्मप्रवृत्ताः यज्ञाः,प्रोक्तास्ते तु कालासयेण शास्त्रादस्मात् कालवोधो यतः स्यात् वेदाङ्गत्वं- ज्यौतिषस्योक्तमस्मात्। वेदाङ्गज्यौतिषसय सम्मत्यां ज्यौतिषसमयो वेदांङ्गेषु मूर्धस्यानीयोऽस्ति। यथा शिक्षामयूराणां,नागानां मणियों यथा। तद्वद् वेदांङ्गशास्त्रणां, गणितं मूर्धनि स्थितम्।। अस्य वेदाङ्गस्य अनेके प्रकाण्डपाण्डित्य वन्तोभुवनविदिता आचार्या बभूवुः।तेषांनामानि वराहमिहिरः ,आर्यभट्टः, ब्रह्मगुप्तः,लल्लाचार्यः उत्पलाचार्यः,श्रीपतिः,भोजदेवः, भास्कराचार्यः,केशवः, गणेशदत्तः,कमलाकरः,च सन्ति।। सर्वेऽपि ते आचार्याः ज्यौतिषशास्त्र बिषयकान् उत्तमोत्तमान् ग्रन्थान् विरचयामास।ज्यौतिर्विदाम् आधुनिकःसंसारो यत् निधिम् एतेभ्यो विद्वज्जनेभ्यः संलब्धवान् तेन से स्पृहणीयां परमगौरवंभजते। ज्योतिषे मानवजीवने अत्यावश्यकानामनेकेषां विषयाणां संग्रहोऽस्ति।तत्र यन्त्राणां, खातादीनां,क्रकचादीनाम् अन्येषां च विद्यालयके अनुपलभ्य विषयाणामध्ययननाध्यापनं भवति। तेषां वास्तविकाध्यनाय तेषां दर्शनमतीवावश्यकम्। यत्र यत्र पाठ्यविषयसम्बध्दानि वस्तूनि प्राप्यन्ते तत्र तत्र गत्वा यदि तेषामध्ययनाध्यापनं क्रियते तदा कठिनाश्च विषयाः सरलाः इव जायन्ते । ज्योतिषस्य प्रयोगः दैनिक जीवने महद् रूपेण भवति।अस्य प्रयोगस्तु आकाशीयग्रह-नक्षत्रादीनां स्थिति ज्ञानाय ,वार-तिथि-नक्षत्राणां ज्ञानाय-ऋतु परिवर्तनादीनां ज्ञानाय च मुख्यरूपेण भवति।।इति।।