श्री रामनरेश त्रिपाठी
प्रवक्ता (पुराणेतिहास)
आर्यावर्तस्य या सारस्वतसमृद्धिस्तस्या मूलहेतवो वेदाः सन्ति। वेदेभ्य एव निर्गताः ज्ञानधाराः समयमपि जगतीतलं पवित्रीकुर्वन्ति। एतत्सत्यपि इदं तथ्यमवश्यं वेदितव्यं यद् वेदानां रहस्यमतीव गम्भीरमस्ति। तस्मान्न महर्षीनतिरिच्य कोऽपि तान् याथातथ्येनावगन्तुं क्षमो भवतिः अतएव दुर्मे सां नृणां कल्याणहेतवे भगवान् व्यासः पुराणमितिहासञ्च प्रास्तौत्। वेदार्थाव बोधक्षेत्रेपुराणानां महत्तां महाभारतकार आह-
पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः ।।' तत्रैव पुराणानां वेदोपबृंहणसाधनत्वमपि प्रगीतम् -इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्। विभेत्यल्पश्रुताद् वेदो मामयं प्रहरिष्यति ।।'
पुराणानां परम्परा नितरां प्राचीनाऽस्ति । वैदिके वाड्मये अपि अस्याः पुराणविद्यायाश्चर्चा उपलभ्यते। यथा अथर्ववेदस्यायं मन्त्र आह-
श्रवः सामानि छन्दांसि पुराणं यजुषा सह। उच्छिष्टाज्जजिरे सर्वे दिवि देवा दिविश्रिताः ।।
गोपथब्राह्मणमपि पञ्चवेद विद्यासु पुराणविद्यामपि जयाह। यथा तत्रोक्तमपि. पञ्चवेदान् निरमिमत सर्वपिशाचवेदमसुरवेदमितिहासवेदं पुराणवेदम्।'
एतत्पुराणं शतपथब्राह्मणेऽपि परिगणितं विद्यारूपेण। तद्यथा-
मध्वाहुतयो वाकोवाक्यमितिहासपुराणं तद् देवाँस्तर्पयति।
एवमेव याज्ञवल्क्येन महर्षिणापि 'स्वीये स्मृतिग्रन्थे धर्मस्थानरुपेण, विद्यास्थानरुपेण चैतस्य पुराणस्य ग्रहणं कृतम्। तद्यथा-
पुराणन्यायमीमांसाधर्मशास्त्रांगमिश्रिताः।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश।।'
एवम्प्रकारकैः सन्दर्भरिदं तथ्यं स्पष्टं भवति यत् पुराणविद्यायाः परम्परा नितरां पुरातनी अस्ति तथा अस्यास्तथैव प्रामाण्यं यथा वेदानाम्। अतः परं प्रश्नोऽयमुदेति यत् कश्चासौ पुराणपदार्थः। तत्र पुराणशब्दस्य प्रयोगः 'प्राचीनम्' इत्यर्थे भवति। पाणिनीयव्याकरणेन पुराणमित्यर्थे 'पुरातनम्' इति पदं निष्पाद्यते। तथापि पूर्वाचार्यैः पठितत्वात् पाणिनिनापि पुराणपदस्य प्रयोगः कृतः। वायुपुराणे पुराणशब्दस्य तात्पर्य प्रकाशितमेवम्-
यस्मात् पुरा ह्यनक्तीदं पुराणं तेन तत् स्मृतम्।
प्राचीनकाले इदमेतादृशत्र्चाजायत, तस्मादिदं पुराणमुच्यते। निरुक्ते महर्षिणा यास्कैनोक्तम्-
पुरा नवं भवति इति पुराणम्।'
अर्थाद् यत् प्राचीनं सदपि नित्यनूतनमस्ति, तत् पुराणम्।
एवंविधस्वरूपवतः पुराणस्य किं लक्षणमिति जिज्ञासायां श्रीमद्भागवतोक्तोयं सन्दर्भों विमृश्यः-
अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः । मन्वन्तरेशानुकया निरोधो मुक्तिराश्रयः ।।'
अर्थात् सर्गः, विसर्गः, स्थानं, पोषणं, ऊतिः, मन्वन्तरं, ईशानुकथा, निरोधः, मुक्तिः, आश्रयश्चेति दश विषयाः, पुराणानां, विशेषेण श्रीमद्भागवतस्य मन्यन्ते सामान्यतः पुराणमात्रस्य पञ्चैव विषयाः प्रसिद्धाः। तद्यथा मत्स्यमहापुराणे प्रोक्तम्-
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च।
वंशानुचरितं चेति पुराणं पञ्चलक्षणम्।।'
एतद्वचनदिशा सर्गः, प्रतिसर्गः, वंशः, मन्वन्तरम्, वंशानुचरितं चेति पञ्च विषयाः पुराणसामान्यस्य लक्षणानि भवन्ति। पुराणानां विषयाः के भवन्तीति-विषये विष्णुपुराणस्य मतमपि विचिन्तनीयम्। यथा-
आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः। पुराणसंहितां चक्रे पुराणार्यविशारदः ।।
अर्थात् आख्यानम्, उपाख्यानम्, गाथा तथा कल्प-शुद्धिः (क्वचित् कल्पजोक्तिरिति पाठः) इमे चत्वारो विषयाः पुराणानां सामान्यविषया भवन्ति। पुराणसाहित्यमतीव विशालमस्ति। तस्य यदि वर्गीकरणं भवेत्तु प्रायः पञ्चवर्गा भवन्ति-महापुराणम्, उपपुराणम्, पुराणम्, औपपुराणम्, पुराणसंहिता चेति। परन्तु नेदं वर्गीकरणमन्तिमम्, अस्मात् कारणात् पुराणानां द्वौ वर्गों उचितौ प्रतिभातः-महापुराणम्, उपपुराणञ्च। तत्र महापुराणानां संख्या नियताऽस्ति अष्टादश। किन्तु उपपुराणानां यद्यपि संख्या अष्टादशैव प्रोच्यते, तथापि तानि पारेशतमुपलभ्यन्ते। ततः तानि अनियतसंख्याकानि मन्तव्यानि। महापुराणेषु वायुपुराणम्, भागवतपुराणं च किंचिद् विवादास्पदं स्तः। तयोः स्थानापन्ने दुवे पुराणे स्तः। भागवतस्य देवीभागवतम्, वायुपुराणस्य शिवपुराणम्। देवीभागवते अष्टादशमहापुराणानां नामानि कूटश्लोकेन प्रोक्तानि । यथा-
म-द्वयं भ-द्वयं चैव ब्र-त्रयं व-चतुष्टयम् ।
अ-ना-प-लिं-ग-कू-स्कानि पुराणानि पृथक् पृथक् ।।
अर्थात् मार्कण्डेय, मत्स्य, भागवत, भविष्य, ब्रह्म, ब्रह्मवैवर्त ब्रह्माण्ड, वामन, वायु वराह, विष्णु, अग्नि, नारद, पद्म, लिंग, गरुड, कूर्म, स्कन्दपुराणानि महापुराणानि सन्ति। उपपुराणानि बहूनि सन्ति गणेश-मुद्गल-कालिका महाभागवत-सौर-साम्ब-नरसिंह-पराशरादीनि । सर्वमपीदं पुराणवाड्मयं विविधविद्या विराजितं व्यासदेवेन, तच्छिष्यादिभिश्च प्रणीतं भारतवर्षस्य महान् निधिरस्तीति दिक् ।
....