#

अविनाश चतुर्वेदी,

सहायक प्रवक्ता (व्याकरण)

नमस्काराः सर्वेभ्यः! अहमस्मि आचार्यः अविनाश चतुर्वेदी, व्याकरणप्राध्यापकः, श्रीसहदेवसंस्कृतमहाविद्यालये। मनुष्येषु पारस्परिकभावविनिमयार्थं भाषा भवति प्रमुखं साधनम्। व्याकरणेन कस्यापि भाषायाः शुद्धतया पठन-पाठन-वाचन-लेखनकौशलानां विकासो सम्भवति। शुद्धप्रयुक्तः शब्दः स्वर्गे लोके च मोक्षदो भवतीति महाभाष्यवचनम्। यथा - "एकश्शब्दः सम्यज्ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके च कामधुक् भवति"।विश्वस्मिन् नैकाः भाषाः सन्ति। तासु देववाणी संस्कृतभाषा सर्वप्राचीना सर्वासां भाषाणां च जननी इति कथ्यते। तदुक्तं दण्डिना - " संस्कृतं नाम दैवी वागन्वख्याता महर्षिभिः" इति। अस्याः एव भाषायाः प्रयोगसाधुत्वसम्पादनार्थं सुविस्तृतं संस्कृतव्याकरणवाङ्मयं विराजते‌। तदुक्तं प्रयोजनरूपेण पश्पशाह्निके महाभाष्ये - "कानि पुनः शब्दानुशासनस्य प्रयोजनानि? रक्षोहागमलघ्वसन्देहाः प्रयोजनम्"। रक्षा - "रक्षार्थं वेदानामध्येयं व्याकरणम्। लोपागमवर्णविकारज्ञो हि सम्यग् वेदान् परिपालयिष्यतीति।" ऊहः - "ऊहः खल्वपि न सर्वैर्लिङ्गैर्न च सर्वाभिर्विभक्तिभिर्वेदे मन्त्राः निगदिताः। ते च‌ अवश्यं यज्ञगतेन पुरुषेण यथायथं विपरिणमयितव्याः। तान्नावैयाकरणः शक्नोति यथायथं विपरिणमयितुं, तस्मादध्येयं व्याकरणम्।" आगमः - "आगमः खल्वपि ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्चेति। प्रधानश्च षट्ष्वङ्गेषु व्याकरणम्। प्रधाने च कृतो यत्नः फलवान् भवति।" लघु - "लघ्वर्थञ्चाध्येयं व्याकरणम्। ब्राह्मणेनावश्यं शब्दाः ज्ञेया इति। न चान्तरेण व्याकरणं लघुनोपायेन शब्दाः शक्या विज्ञातुम्।" असन्देहः - "अन्देहार्थञ्चाध्येयं व्याकरणम्। याज्ञिकाः पठन्ति - स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेतेति। तस्यां सन्देहः दूरीकर्तुं शास्त्रमिदम्। एवं तत्र सर्वथा शास्त्रे स्वीयः प्रयत्नः विधेयः। तदुक्तम् - यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्। स्वजनो श्वजनो माऽभूत्सकलं शकलं सकृत् शकृत्।।इति।