डां रघुवर प्रसाद त्रिपाठी
प्रवक्ता व्याकरण
वि+आङ् उपसर्गपूर्वकात् 'कृ'-धातोः ल्यूट्-प्रत्यये सिद्धय्ति व्याकरणशब्दः। व्याक्रियन्ते व्युत्पाद्यन्ते साधुशब्दाः अनेनेति व्याकरणम्। व्याक्रियन्ते व्याख्यायन्ते लौकिकाः वैदिकाश्च शब्दा इति। व्युत्पाद्यन्ते निष्पाद्यन्ते शब्दाः सप्रकृतिप्रत्ययाः सोपसर्गाश्च।
अस्य रक्षोहागमलध्वरसंदेहाः प्रयोजनम्। वेदाङ्गानां प्रधानमङ्गं व्याकरणमस्ति। महाभारते व्यासेन बुद्धेर्गुणानां महत्वं प्रतिपादितमस्ति, यथा-
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा।
ऊहापोहोऽर्थविज्ञानं तत्वज्ञानं च द्यीगुणाः।।
महाभारते वनपर्वाणि २/१९
१. शुश्रूषा -शब्दार्थयोः स्वरूपगुणयोः जिज्ञासा।
२. श्रवणम् - शब्दार्थयोः गुणस्वरुपयोः श्रवणम्।
३. ग्रहणम् - शब्दार्थयोः गुणस्वरूपयोः ज्ञानम्।
४. धारणम् - शब्दार्थद्वाराप्राप्तज्ञानस्य धारणम्।
५. ऊहापोहः - शब्दार्थ विषयकमन्वेषणं विश्लेषणञ्च।
६. अर्थविज्ञानम् - अर्थतत्वस्य वास्तविकं ज्ञानम्।
७. तत्वज्ञानम् - आत्मतत्वस्य, ब्रह्मतत्वस्य ज्ञानम्।
यद्यपि भारतीयमनीषिभिः प्राचीनकालादेव वाकृतत्वस्य सूक्ष्मचिन्तनं प्रारब्धमासीत्। पाणिनेः पूर्वं ऐन्द्रशैवकाशकृत्स्नापिशालिंशाकटायनजैनेन्द्रादिव्याकरणसम्प्रदायाः प्रचलिताः। अर्वाचीनानां प्राचीनानां वैयाकरणानां मध्ये पाणिनिमुनिः मुख्योऽस्ति। अनेन विरचितः 'अष्टाध्यायी' ग्रन्थो व्याकरणस्याधारभूतग्रन्थोऽस्ति। पतञ्जलिमुनिना भाष्ये निरूपितमस्ति "पाणिनीयं महत्सुविहितम्" (भा०३/२/३), पाणिनिशब्दो लोके प्रकाशते, पाणिनेः सूत्रकारस्य (भा०२/२/११) आकुमारं यशः पाणिनेः (भा० १/४/८९), महती सूक्ष्मेक्षिका वर्तते सूत्रकारस्य (भा०४/२/७४) इत्यादि।
पाणिनीयव्याकरणस्य त्रिविधो विकास्तनुक्रमोऽस्ति।
१. अष्टाध्यायीक्रमः
२. प्रक्रियाक्रमः
३. दार्शनिकक्रमः
१. अष्टाध्यायीक्रमः = अस्यान्तर्गतमष्टाध्यायीग्रन्थे विद्यमानसूत्रानुसारेण व्याख्यानमस्ति।
२. प्रक्रियाक्रमः = अस्यान्तर्गतं शब्दरूपसाधनानुसारेण प्रकरणेष्वष्टाध्या यीस्थसूत्राणां निरुपणमस्ति।
३. दार्शनिकक्रमः = अत्र "शब्देनेव सर्वमस्ति" अयं शब्दः कः? किं स्वरूपम् ? कस्तर्हि निष्पत्रः ? को व्यवहारः ? संचरणं करतर्हि भवति ? किं प्रभावं? कतिप्रकारम् ? कस्तर्हि प्रयोगो भवति ? पश्चात् प्रभावः किं भवति? वा भविष्यति ? वाभवत् ? अतः वाक्तत्वस्य सूक्ष्माध्ययनं प्रारब्धनभवत्। प्रथमं प्राच्यभारतीयमुनिरूपेण वैज्ञानिकेन अक्षरेति नाम्ना सम्बोधितम्। कणादमुनिना वैशेषिकदर्शनेभणितं यत् शब्दगुणकमाकाशम् आकाशं विभु नित्यञ्च अक्षरनाम्नः साधुत्वम्। अत्र शब्दस्य नित्यत्वं प्रतिपादितमस्ति। सृष्टिसृजनं शब्दब्रह्मणैवाभवत्। भर्तृहरिः स्वकीये व क्यपदीयग्रन्ये प्रतिपादितवान् -
अनादिनिधनं ब्रहा शब्दतत्त्वं यदक्षरम्।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः।। (वा०प०१।१)
शतपथब्राह्मणे -
वागेवविश्वा भुवनानि जज्ञे वाचल इत्सर्वममृतं यच्च मर्त्यम्।
अथेद्वाग्बुभुजे वागुवाच पुरुत्रा वाचो न परं यच्च नाह।।
(श०प०ब्रा० ६/५/३/४)
सांख्यसमाससूत्रे शब्दतन्मात्रादाकाशम्। अत्र केवलं शब्दगुणो वर्तते। शब्दस्यर्शाभ्यां वायुः, अत्र शब्दस्पर्शी उभौ गुणौ वर्तते। शब्दस्पर्शरूपेभ्यः तेजः (अग्निः), अत्र त्रयो गुणा वर्तन्ते। शब्दस्पर्शरूपरसेभ्य जलम्, अत्र शब्दरूपरसस्पर्श गुणा वर्तन्ते। अतः सांख्यमतानुसारेण शब्देन सुजनम्, पालनम्, लयो भवति। वेदान्ते तु पञ्जीकरणेऽऽकाशादिपञ्चमहाभूतेषु एकैकं द्विधा समं विभज्य तेषु दशषु भागेषु प्राथमिकान् पञ्चभागान् चतुर्धा समं विभज्य प्रत्येकमहाभूतस्य पञ्च पञ्च भागाः कृताः। ततः चत्वारः अष्टमांशभागाः स्वस्वद्वितीयार्धभागपरित्यागेन अन्यमहाभूतानां चतुर्षु अर्द्धभागेषु एकैकं संयोजिताः।
"शब्दं विहाय किश्चिद् नास्ति"।
कौण्डभट्टेन वैयाकरणभूषणसारग्रन्थे मङ्गलाचरणे प्रतिपादितमास्ति- "स्फोटरूपं यतः सर्व जगदेतद् विवर्तते"।
अथ स्फोट:- आघातत्वात् वायुसंसर्गेण शब्दः स्वयमेव रूपद्वयस्य ग्रहणं करोति। प्रथमः वर्णादिरूपेण, द्वितीयो यन्त्रैः, विस्फोटैर्वा अन्यान्यविधयास्पष्टरूपेण। शब्दोत्पत्त्रत्यात् अभिव्यञ्जनं करोति। प्रथमे वर्णादिरूपेणाभिव्यञ्जनेन पूर्वज्ञानेन संस्कारेण वा बोध्यतेऽर्थः। अत्र कस्तर्ह्यर्थस्य बोधो भवति। नागेशेन परमलषुमषाग्रन्थे, कौण्डभट्टेन वैयाकरणभूषणसारग्रन्ये भर्तृहरिणा वाक्यपदीयेऽन्यान्यदर्शनेदार्शनिकैः प्रतिपादितमस्तिा स्फोट एव स्फोटस्य प्रकारः। यद्यपि स्फोटशब्दस्यानेकेषु पौराणिकग्रन्थेषु वर्णनमस्ति। अर्वाचीनविज्ञानशास्त्रेऽपि स्फोटस्याध्ययनं वर्तते। स्फोटस्य द्विविधा व्युत्पत्तिरङ्गीक्रियते-
१-स्फुटति - प्रकाशते ऽवगम्यतेऽर्थोऽनेनास्माद्वेति व्युत्पत्या, अर्थविषयकोपस्थितिजनकतावच्छेदकोभूतशक्तिमत्वं स्फोटत्वमिति भावः।
२. स्फुट्यते अभिव्यज्यते वर्णैरिति स्फोट इति व्युत्पत्या वैखरीध्वनीनां व्यञ्जकत्वं स्फोटस्य च व्यङ्गय्तेति सिद्ध्यति।
स्फोटस्य भेदाः वर्णपदवाक्यभेदेन स्फोटस्रिधा। पुनः जाति-व्यक्तिभेदेन षोड़ा। अखण्डपदस्फोटः अखण्डवाक्यस्फोटश्चेति सङ्कलनयाष्टौ स्फोटाः।
स्फोटः संचरणं करोति। संचरणाय माध्यममावश्यकमस्ति । विभिन्नपदार्थेषु अस्यागतिर्भित्रामित्रा भवति।