डॉ. मनीष कुमार पुरोहित
प्रवक्ता (वेद)
वेदोऽखिलो धर्ममूलं,स्मृतिशीले च तद्विदाम्।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च।
वेदमेव सदाऽभ्यसेत्,तपस्तप्यन् द्विजोत्तमः।
वेदाभ्यासो हि व्रिप्रस्य,तपः परमिहोच्यते।।
संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्तते। भारतीय दर्शनस्य धर्मस्य च जीवनं वेदा एव सन्ति। वैदिक वाङमयस्यानाद्यपौरूषेयमन्त्रब्राह्मणत्मकवेदवच्चरणाश्रितसकलसच्छास्त्रतात्पर्यस्य च प्राचीनतमत्वे, सर्व भाषा साहित्यानां दैशिकवैदेशिकानां मूलभूतत्वेऽत्यन्तमुपादेयत्वे च नाऽस्ति लेशतोऽपि सन्देहो भाषात्त्वविदां विद्वन्मूर्धन्यानाम्।
अस्यैतिहासिकाध्ययनस्य परमावश्यकत्वम्प्रतिक्षणमनुभवन्ति
भाषातत्त्वविदो विद्वांसः।
वेदशब्दार्थ:- 'विद् ज्ञाने' इति ज्ञानार्थकाद् विद् धातोः घञ् प्रत्यये सति वेद इति निष्पद्यते,एवं वेदशब्दो ज्ञानार्थकः। ज्ञानराशिः वेद इति वक्तुं शक्यते।वेदाज्ञानराशित्वात्शाश्वतस्थायिनः ज्ञाननिधयः मानवहितप्रापकाः मनुज- कर्तव्य बोधका इति विविधधात्वर्थ ग्रहणाद् ज्ञायते।
विद्यन्ते ,ज्ञायन्ते, लभन्ते,एभिधर्मो पुरुषार्थाः इति वेदा।
इत्थं वेदाः पुरुषार्थ चतुष्टस्य विवेचक ग्रन्थाः सन्ति।
आचार्य सायणे कथितम्-आलौकिक पुरुषार्थोपायंवेत्यनेनेति वेदनिर्वचनम् ,
"इष्टप्राप्त्यन्निष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थों वेदयति से वेदः"
अर्थात्-यथालौकिक पदार्थानां ज्ञानार्थं नेत्राणामाश्यकता भवति तथैव अलौकिक रहस्योद् घाटनार्थं वेदज्ञानस्य समुपस्थितिरावश्यिकी।
श्रुतिः निगमः आगमःत्रयी छन्दस्, आम्नायः स्वाध्याय इत्येते वेदस्य पर्यायार्था अपि भवन्ति।
गुरुशिष्यपरम्परायां श्रवणेन सुरक्षितोऽयं वेदः श्रुतिनाम्नाव्यपदिश्यते।सार्थक-साभिप्राय-सुसंगतगम्भीरार्थप्रतिपादकत्वात् वेदः निगम इत्युच्ये।
मीमांसाशास्त्रानुसारं "त्रयी" इति पदेन वेदानां त्रिधा रचनाधाराः स्वीक्रियन्ते। यथा- पद्यमयी रचना"ऋक्"गद्यात्मकरचना "यजुः",गीतात्मक रचना "साम" इति
वेदानांभाग:- वेदानां मुख्य रुपेण चत्वारो भागाः वर्तन्ते।
१-संहिता,२-ब्राह्मणम्,३-आरण्यकम्, ४-उपनिषदिति।
वेदशब्दः मुख्यत्वेन ऋग्यजुःसामाथर्वनामाभिः प्रचलितानां चतस्रृणां वेद संहितानां बोधकः।एतेषामेव चतुर्णां वेदानां व्याख्याभूता ब्राह्मण ग्रन्थाः सन्ति।येषु वैदिक कर्मकाण्डस्य विशदं वर्णनमस्ति। एतेषु वेदानाम् आध्यात्मिकी व्याख्याऽपि प्रस्तूयते।एतेषां परिशिष्ट रुपेण आरण्यक ग्रन्थाःसन्ति। एषु आध्यात्मक विद्याया विवेचनं प्राप्यते। उपनिषत्सु च तस्या स्वाध्यात्म विद्यायाश्चरमोतकर्ष संलक्ष्यते। वैदिक साहित्यशब्देन समग्रोऽपि मन्त्र-ब्राह्मण-आरण्यक-उपनिषत् संग्रहरुपों निधिर्गृह्यते।
आधुनिकानाम् इतिहास काराणां कथनमिदं यत् षण्णामपि वेदाङ्गानां निर्माणं वैदिकयुगस्य उत्तरार्द्ध भागेऽभवत्।शिक्षा,कल्प,व्याकरणम्,कल्पः,
निरुक्तम्,छन्दः,ज्योतिषञ्च इत्येतानि वेदाङ्गानां नामानि सन्ति।।
शिक्षाशास्त्रेतिहासः पुरातनतरःपरं न तद्विषयकाः प्राचीनतरा ग्रन्था उपलभ्यन्ते। वैदिक काले एवं वेदाङ्ग प्रति वैदिकानाम् ऋषिणां ध्यानाकर्षणम् अभवत्।अस्तु
।।तन्मे नमः शिवसङ्कलपमस्तु।।
!!सर्वेभ्यो नमो नमः!!